2026-05-03 04:20:49 by ambuda-bot
This page has not been fully proofread.
अष्टमोऽध्यायः ।
२४५
अहरागमे, प्रलीयते पुनः पुनः रात्र्यागमे अह्नः क्षये अवशः
अस्वतन्त्र एव, हे पार्थ, प्रभवति जायते अवश एव
अहरागमे ॥
यत् उपन्यस्तम् अक्षरम्, तस्य प्राप्त्युपायो निर्दिष्टः
'ओमित्येकाक्षरं ब्रह्म' इत्यादिना । अथ इदानीम् अक्षर-
स्यैव स्वरूपनिर्दिदिक्षयां इदम् उच्यते, अनेन योगमार्गेण
इदं गन्तव्यमिति —
परस्तस्मात्तु भावोऽन्यो-
ऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु
नश्यत्सु न विनश्यति ॥ २० ॥
परः व्यतिरिक्तः भिन्नः कुतः ? तस्मात् पूर्वोक्तात् ।
तु-शब्द: अक्षरस्य विवक्षितस्य अव्यक्तात् वैलक्षण्यविशेष-
. णार्थः । भावः अक्षराख्यं परं ब्रह्म । व्यतिरिक्तत्वे सत्यपि
सालक्षण्यप्रसङ्गोऽस्तीति तद्विनिवृत्यर्थम् आह— अन्यः
इंति । अन्यः विलक्षणः । स च अव्यक्तः अनिन्द्रियगोचरः ।
T
' परस्तस्मात्' इत्युक्तम् ; कस्मात् पुनः परः ? पूर्वोक्तात् भूत-
ग्रामबीजभूतात् अविद्यालक्षणात् अव्यक्तात् । अन्यः विल-