2026-05-03 04:20:48 by ambuda-bot
This page has not been fully proofread.
२४४
श्रीमद्भगवद्गीताभाष्ये
प्रजापतेः अहनि यत् भवति रात्रौ च तत् उच्यते-
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥
अव्यक्तात् अव्यक्तं प्रजापतेः स्वापावस्था तस्मात्
अव्यक्तात् व्यक्तयः व्यज्यन्त इति व्यक्तयः स्थावरजङ्गम-
लक्षणाः सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते, अह्नः
आगम: अहरागमः तस्मिन् अहरागमे काले ब्रह्मण: प्रबो-
धकाले । तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते
सर्वाः व्यक्तयः तत्रैव पूर्वोक्ते अव्यक्तसंज्ञके ॥
अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थम्, बन्धमोक्ष-
शास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयव-
शाश्च्च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे
वैराग्यप्रदर्शनार्थे च इदमाह–
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥
भूतग्राम: भूतसमुदाय: स्थावरजङ्गमलक्षणः यः पूर्व-
स्मिन् कल्पे आसीत् स एव अयं नान्यः । भूत्वा भूत्वा