Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२४२
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
सततम् इति नैरन्तर्यम् उच्यते, नित्यशः इति दीर्घकाल -

त्वम् उच्यते । न षण्मासं संवत्सरं वा; किं तर्हि ? यावज्जीवं

नैरन्तर्येण यः मां स्मरतीत्यर्थः । तस्य योगिनः अहं सुलभः

सुखेन लभ्यः हे पार्थ, नित्ययुक्तस्य सदा समाहितचित्तस्य

योगिनः । यतः एवम्, अत:तः अनन्यचेताः सन् मयि सदा

समाहितः भवेत् ॥
 
</p>
<p>
तव सौलभ्येन किं स्यात् इत्युच्यते; शृणु तत् मम

सौलभ्येन यत् भवति-
 
-
 
—</p>
<verse>
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥
 
-
 
१५ ॥</verse>
<p>
माम् उपेत्य माम् ईश्वरम् उपेत्य मद्भावमापद्य पुनर्जन्म

पुनरुत्पत्तिं नाप्नुवन्ति न प्राप्नुवन्ति । किंविशिष्टं पुनर्जन्म

न प्राप्नुवन्ति इति, तद्विशेषणमाह — दुःखालयं दुःखानाम्

आध्यात्मिकादीनां आलयम् आश्रयम् आलीयन्ते यस्मिन्

दुःखानि इति दुःखालयं जन्म । न केवलं दु:दुःखालयम् ,

अशाश्वतम् अनवस्थितस्वरूपं च । नाप्नुवन्ति ईदृशं पुनर्जन्म

महात्मानः यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः

प्राप्ताः । ये पुनः मां न प्राप्नुवन्ति ते पुनः आवर्तन्ते ॥
 
</p>
</page>