Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
अष्टमोऽध्यायः ।
 
२३९</ignore>
<verse>
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
 

तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ११ ॥
 
२३९
 
</verse>
<p>
यत् अक्षरं न क्षरतीति अक्षरम् अविनाशि वेदविदः

वेदार्थज्ञाः वदन्ति, 'तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवद-
न्ति'

न्ति’
इति श्रुतेः, सर्वविशेषनिवर्तकत्वेन अभिवदन्ति 'अ-

स्थूलमनणु' इत्यादि । किंच - विशन्ति प्रविशन्ति सम्य-

ग्दर्शनप्राप्तौ सत्यां यत् यतयः यतनशीलाः संन्यासिनः

वीतरागाः वीतः विगतः रागः येभ्यः ते वीतरागाः । यश्च अक्षर-

मिच्छन्तः — ज्ञातुम् इति वाक्यशेष:-षः — ब्रह्मचर्यं गुरौ

चरन्ति आचरन्ति, तत् ते पदं तत् अक्षराख्यं पदं पदनीयं

ते तव संग्रहेण संग्रह:हः संक्षेपः तेन संक्षेपेण प्रवक्ष्ये

कथयिष्यामि ॥
 
'
</p>
<p merge-next="true">‘
स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोंकारमभि-

ध्यायीत कतमं वाव स तेन लोकं जयतीति । तस्मै स

होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः '

इत्युपक्रम्य 'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुष-

मभिध्यायीत स सामभिरुन्नीयते ब्रह्मलोकम्' इत्यादिना

वचनेन, 'अन्यत्र धर्मादन्यत्राधर्मात्' इति च उपक्रम्य
'

सर्वे वेदा यत्पदमामनन्ति । तपांसि सर्वाणि च यद्वदन्ति ।
 
</p>
</page>