Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
अष्टमोऽध्यायः ।
 
२३७
 
</ignore>
<p>
यान्तरे गन्तुं शीलम् अस्येति नान्यगामि तेन नान्यगा-

मिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले

भवं याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योप-

देशम् अनुध्यायन् इत्येतत् ॥
 
i
 
</p>
<p>
किंविशिष्टं च पुरुषं याति इति उच्यते-
 
—</p>
<verse>
कविं पुराणमनुशासितार-

मणोरणीयांसमनुस्मरेद्यः ।

सर्वस्य धातारमचिन्त्यरूप-
 

मादित्यवर्णं तमसः परस्तात् ॥ ९ ॥
 
</verse>
<p>
कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनम् अनुशासि-

तारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मादपि अणीयांसं

सूक्ष्मतरम् अनुस्मरेत् अनुचिन्तयेत् य:यः कश्चित्, सर्वस्य कर्म-

फलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभ-

क्तारम्, अचिन्त्यरूपं न अस्य रूपं नियतं विद्यमानमपि केन-

चित् चिन्तयितुं शक्यते इति अचिन्त्यरूपः तम्, आदित्य-

वर्णम् आदित्यस्येव नित्यचैतन्यप्रकाशो वर्णो यस्य तम्

आदित्यवर्णम्, तमसः परस्तात् अज्ञानलक्षणात् मोहान्ध-

कारात् परं तम् अनुचिन्तयन् याति इति पूर्वेण संबन्धः ॥
 
</p>
</page>