Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२३६

श्रीमद्भगवद्गीताभाष्ये

</ignore>

शरीरं तं तमेव स्मृतं भावमेव एति नान्यं कौन्तेय, सदा

सर्वदा तद्भावभावितः तस्मिन् भावः तद्भावः स भावितः

स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन् ॥

यस्मात् एवम् अन्त्या भावना देहान्तरप्राप्तौ कारणम्-

<verse>
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।

मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥

</verse>

तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रम् ।

युध्य च युद्धं च स्वधर्मेमं कुरु । मयि वासुदेवे अर्पिते मनो-

बुद्धी यस्य तव स त्वं मयि अर्पितमनोबुद्धिः सन् मामेव

यथास्मृतम् एष्यसि आगमिष्यसि ; असंशयः न संशयः अत्र

विद्यते ॥

किंच

<verse>
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥

</verse>

अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते एक- .

स्मिन् तुल्यप्रत्ययावृत्तिलक्षणः विलक्षणप्रत्ययानन्तरित:तः अ-

भ्यासः स चाभ्यासो योगः तेन युक्तं तत्रैव व्यापृतं

योगिनः 'चेतः तेन, चेतसा नान्यगामिना न अन्यत्र विष-

</page>