Proofing

This page has been fully proofread once and needs a second look.

T
 
<page>
<ignore>
अष्टमोऽध्यायः ।
 
२३५
 
</ignore>
<p>
वा, पुरुष:षः आदित्यान्तर्गतो हिरण्यगर्भः, सर्वप्राणिकरणानाम्

अनुग्राहकः, सः अधिदैवतम् । अधियज्ञः सर्वयज्ञाभिमानिनी

विष्ण्वाख्या देवता, 'यज्ञो वै विष्णुः' इति श्रुतेः । स हि

विष्णुः अहमेव ; अत्र अस्मिन् देहे यो यज्ञः तस्य अहम्

अधियज्ञ:ञः ; यज्ञो हि देह निर्वर्त्यत्वेन देहसमवायी इति देहा-

धिकरणो भवति, देहभृतां वर ॥
 
</p>
<verse>
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् ।

यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥
 
५ ॥</verse>
<p>
अन्तकाले मरणकाले च मामेव परमेश्वरं विष्णुं स्मरन्

मुक्त्वा परित्यज्य कलेबरं शरीरं यः प्रयाति गच्छति, सः

मद्भावं वैष्णवं तत्त्वं याति । नास्ति न विद्यते अत्र अस्मिन्

अर्थे संशय:-यः — याति वा न वा इति ॥
 
</p>
<p>
न मद्विषय एव अयं नियमः । किं तर्हि ? -
 
—</p>
<verse>
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ।

तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥
 
</verse>
<p merge-next="true">
यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन्
 
.
 

त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेबरं
 
</p>
</page>