2026-05-03 04:20:45 by ambuda-bot
This page has not been fully proofread.
T
अष्टमोऽध्यायः ।
२३५
वा, पुरुष: आदित्यान्तर्गतो हिरण्यगर्भः, सर्वप्राणिकरणानाम्
अनुग्राहकः, सः अधिदैवतम् । अधियज्ञः सर्वयज्ञाभिमानिनी
विष्ण्वाख्या देवता, 'यज्ञो वै विष्णुः' इति श्रुतेः । स हि
विष्णुः अहमेव ; अत्र अस्मिन् देहे यो यज्ञः तस्य अहम्
अधियज्ञ: ; यज्ञो हि देह निर्वर्त्यत्वेन देहसमवायी इति देहा-
धिकरणो भवति, देहभृतां वर ॥
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥
अन्तकाले मरणकाले च मामेव परमेश्वरं विष्णुं स्मरन्
मुक्त्वा परित्यज्य कलेबरं शरीरं यः प्रयाति गच्छति, सः
मद्भावं वैष्णवं तत्त्वं याति । नास्ति न विद्यते अत्र अस्मिन्
अर्थे संशय:- याति वा न वा इति ॥
न मद्विषय एव अयं नियमः । किं तर्हि ? -
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥६॥
यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन्
.
त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेबरं