Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२३४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
अक्षरं न क्षरतीति अक्षरं परमात्मा, ' एतस्य वा अक्षरस्य

प्रशासने गार्गि' इति श्रुतेः । ओंकारस्य च ' ओमित्येकाक्षरं

ब्रह्म' इति परेण विशेषणात् अग्रहणम् । परमम् इति च

निरतिशये ब्रह्मणि अक्षरे उपपन्नंतरम् विशेषणम् । तस्यैव

परस्य ब्रह्मण:णः प्रतिदेहं प्रत्यगात्मभाव: स्वभाव:वः स्वभावः, स्वो भावः

स्वभावः अध्यात्मम् उच्यते । आत्मानं देहम् अधिकृत्य प्रत्यगा-

त्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उ-

च्यते अध्यात्मशब्देन अभिधीयते । भूतभावोद्भवकरः भूतानां

भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूत-

भावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः । विसर्गः विसर्जनं

देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; स एष
'

विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एत-

स्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि

उद्भवन्ति ॥
 
</p>
<verse>
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।

अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
 
</verse>
<p>
अधिभूतं प्राणिजातम् अधिकृत्य भवतीति । कोऽसौ ?

क्षरः क्षरतीति क्षर:रः विनाशी, भावः यत्किकिंचित् जनिमत्

वस्तु इत्यर्थः । पुरुष:षः पूर्णम् अनेन सर्वमिति, पुरि शयनात्
 
</p>
</page>