2026-05-05 02:30:54 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२३४
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>अक्षरं न क्षरतीति अक्षरं परमात्मा,'‘ एतस्य वा अक्षरस्य
प्रशासने गार्गि'’ इति श्रुतेः । ओंकारस्य च '‘ ओमित्येकाक्षरं
ब्रह्म'’ इति परेण विशेषणात् अग्रहणम् । परमम् इति च
निरतिशये ब्रह्मणि अक्षरे उपपन्नंनतरम् विशेषणम् । तस्यैव
परस्य ब्रह्मण:णः प्रतिदेहं प्रत्यगात्मभाव: स्वभाव:वः स्वभावः, स्वो भावः
स्वभावः अध्यात्मम् उच्यते । आत्मानं देहम् अधिकृत्य प्रत्यगा-
त्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उ-
च्यते अध्यात्मशब्देन अभिधीयते । भूतभावोद्भवकरः भूतानां
भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूत-
भावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः । विसर्गः विसर्जनं
देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; स एष
'
विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एत-
स्मात् हि बीजभूतात् वृष्टट्यादिक्रमेण स्थावरजङ्गमानि भूतानि
उद्भवन्ति ॥
</p>
<verse>अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
</verse>
<p>अधिभूतं प्राणिजातम् अधिकृत्य भवतीति । कोऽसौ ?
क्षरः क्षरतीति क्षर:रः विनाशी, भावः यत्किकिंचित् जनिमत्
वस्तु इत्यर्थः । पुरुष:षः पूर्णम् अनेन सर्वमिति, पुरि शयनात्
</p>
</page>
<ignore>२३४
<p>अक्षरं न क्षरतीति अक्षरं परमात्मा,
प्रशासने गार्गि
ब्रह्म
निरतिशये ब्रह्मणि अक्षरे उपपन्
परस्य ब्रह्म
स्वभावः अध्यात्मम् उच्यते । आत्मानं देहम् अधिकृत्य प्रत्यगा-
त्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उ-
च्यते अध्यात्मशब्देन अभिधीयते । भूतभावोद्भवकरः भूतानां
भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूत-
भावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः । विसर्गः विसर्जनं
देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; स एष
'
विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एत-
स्मात् हि बीजभूतात् वृष्
उद्भवन्ति ॥
<verse>अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
<p>अधिभूतं प्राणिजातम् अधिकृत्य भवतीति । कोऽसौ ?
क्षरः क्षरतीति क्ष
वस्तु इत्यर्थः । पुरु
</page>