Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
सप्तमोऽध्यायः ।
 
२२९
 
</ignore>
<verse>
ते द्वन्द्वमोहनिर्मुक्ता
 

भजन्ते मां दृढव्रताः ॥ २८ ॥
 
</verse>
<p>
येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां

पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्य-

कर्माणः तेषां पुण्यकर्मणाम्, ते द्वन्द्वमोहनिर्मुक्ताः यथोक्तेन

द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढव्रताः ।
'

&apos;
एवमेव परमार्थतत्त्वं नान्यथा'&apos; इत्येवं सर्वपरित्यागत्व्रतेन

निश्चितविज्ञानाः दृढव्रताः उच्यन्ते ॥
 
</p>
<p>
ते किमर्थं भजन्ते इत्युच्यते-
 
--</p>
<verse>
जरामरणमोक्षाय
 

मामाश्रित्य यतन्ति ये ।
 

ते ब्रह्म तद्विदुः कृत्स्न-
 

मध्यात्मं कर्म चाखिलम् ॥ २९ ॥
 
</verse>
<p>
जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरम्

आश्रित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत्

ब्रह्म परं तत् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यगात्मविषयं -

वस्तु तत् विदुः, कर्म च अखिलं समस्तं विदुः ॥
 
</p>
</page>