Proofing

This page has not been fully proofread.

सप्तमोऽध्यायः ।
 
२२५
 
स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतात -
न्वा: राधनम् आराधनम् ईहते चेष्टते । लभते च ततः
तस्याः आराधितायाः देवतातन्वाः कामान् ईप्सितान् मयैव
परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मि-
तान् तान्, हि यस्मात् ते भगवता विहिताः कामाः तस्मात्
तान् अवश्यं लभते इत्यर्थ: । 'हितान्' इति पदच्छेदे
हितत्वं कामानामुपचरितं कल्प्यम्; न हि कामा हिताः
कखचित् ॥
 
यस्मात् अन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च
 
ते, अत:-
 
-
 
अन्तवत्तु फलं तेषां
 
तद्भवत्यल्पमेधसाम् ।
 
देवान्देवयजो यान्ति
 
मद्भक्ता यान्ति मामपि ॥ २३ ॥
 
अन्तवत् विनाशि तु फलं तेषां तत् भवति अल्पमेधसां
अल्पप्रज्ञानाम् । देवान्देवयजो यान्ति देवान् यजन्त इति
देवयजः, ते देवान् यान्ति, मद्भक्ता यान्ति मामपि । एवं
समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफलाय,
अहो खलु कष्टं वर्तन्ते, इत्यनुक्रोशं दर्शयति भगवान् ॥
 
S. B. 15