Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२२४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
कामैः तैस्तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञानाः अपहृतवि-

वेकविज्ञानाः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात्

आत्मनः अन्याः देवता; तं तं नियमं देवताराधने प्रसिद्धो

यो यो नियमः तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन

जन्मान्तरार्जितसंस्कारविशेषेण नियताः नियमिताः स्वया
 

आत्मीयया ॥
 
</p>
<p>
तेषां च कामिनाम् —
 
</p>
<verse>
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तखा

तस्य तस्या
चलां श्रद्धां तामेव विदधाम्यहम् ॥
 
<fix> २१ ॥</fix></verse>
<p>
यः यः कामी यां यां देवतातनुं श्रद्धया संयुक्तः भक्तश्च

सन् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनः

अचलां स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरोमि ॥
 
</p>
<p>
ययैवं पूर्वं प्रवृत्तः स्वभावतो यः यां देवतातनुं श्रद्धया

अर्चितुम् इच्छति—
 
</p>
<verse>
स तया श्रद्धया युक्त-
 

स्तथा राधनमीहते ।
 

लभते च ततः कामा-
 

न्मयैव विहितान्हि तान् ॥ २२ ॥
 
</verse>
</page>