Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
सप्तमोऽध्यायः ।
 
२२३
 
</ignore>
<p>
भवति । ज्ञानी तु अत्यर्थं प्रियो भवतीति विशेषः । तत्

कस्मात् इत्यत आह— ज्ञानी तु आत्मैव न अन्यो मत्तः

इति मे मम मतं निश्चयः । आस्थितः आरोढुं प्रवृत्तः सः

ज्ञानी हि यस्मात् ' &apos;अहमेव भगवान् वासुदेवः न अन्यो-

ऽस्मि'&apos; इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं

ब्रह्म गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः ॥
 
</p>
<p>
ज्ञानी पुनरपि स्तूयते—
 
</p>
<verse>
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥
 
<fix> १९ ॥</fix></verse>
<p>
बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ

ज्ञानवान् प्राप्तपरिपाकज्ञान:नः मां वासुदेवं प्रत्यगात्मानं प्रत्य-

क्षतः प्रपद्यते । कथम् ? वासुदेवः सर्वम् इति । यः एवं

सर्वात्मानं मां नारायणं प्रतिपद्यते, सः महात्मा ; न तत्समः

अन्यः अस्ति, अधिको वा । अतः सुदुर्लभः, '&apos;मनुष्याणां

सहस्रेषु'&apos; इति हि उक्तम् ॥
 
</p>
<p>
आत्मैव सर्वो वासुदेव इत्येवमप्रतिपत्तौ कारणमुच्यते-
—</p>
<verse>
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
 

तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥
 
<fix> २० ॥</fix></verse>
</page>