2026-05-03 04:20:42 by ambuda-bot
This page has not been fully proofread.
सप्तमोऽध्यायः ।
२२३
भवति । ज्ञानी तु अत्यर्थ प्रियो भवतीति विशेषः । तत्
कस्मात् इत्यत आह— ज्ञानी तु आत्मैव न अन्यो मत्तः
इति मे मम मतं निश्चयः । आस्थितः आरोढुं प्रवृत्तः सः
ज्ञानी हि यस्मात् ' अहमेव भगवान् वासुदेवः न अन्यो-
ऽस्मि' इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं
ब्रह्म गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः ॥
ज्ञानी पुनरपि स्तूयते—
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥
बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ
ज्ञानवान् प्राप्तपरिपाकज्ञान: मां वासुदेवं प्रत्यगात्मानं प्रत्य-
क्षतः प्रपद्यते । कथम् ? वासुदेवः सर्वम् इति । यः एवं
सर्वात्मानं मां नारायणं प्रतिपद्यते, सः महात्मा ; न तत्समः
अन्यः अस्ति, अधिको वा । अतः सुदुर्लभः, 'मनुष्याणां
सहस्रेषु' इति हि उक्तम् ॥
आत्मैव सर्वो वासुदेव इत्येवमप्रतिपत्तौ कारणमुच्यते-
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥