Proofing

This page has not been fully proofread.

२२२
 
श्रीमद्भगवद्गीताभाष्ये
 
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
 
तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्त्ववित्त्वात् नित्य-
युक्तः भवति एकभक्तिश्व, अन्यस्य भजनीयस्य अदर्शनात्;
अतः स एकभक्तिः विशिष्यते विशेषम् आधिक्यम् आपद्यते,
अतिरिच्यते इत्यर्थः । प्रियो हि यस्मात् अहम् आत्मा ज्ञानि-
नः, अतः तस्य अहम् अत्यर्थे प्रिय: ; प्रसिद्धं हि लोके 'आ-
त्मा प्रियो भवति' इति । तस्मात् ज्ञानिनः आत्मत्वात् वा-
सुदेवः प्रियो भवतीत्यर्थः । स च ज्ञानी मम वासुदेवस्य आत्मै-
वेति मम अत्यर्थ प्रियः ॥
 
न तर्हि आर्तादयः त्रयः वासुदेवस्य प्रिया: ? न; किं
तर्हि ? -
 
उदाराः सर्व एवैते
 
ज्ञानी त्वात्मैव मे मतम् ।
 
आस्थितः स हि युक्तात्मा
 
मामेवानुत्तमां गतिम् ॥ १८ ॥
 
उदारा: उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया
एवेत्यर्थः । न हि कश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः