2026-05-04 02:04:25 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सप्तमोऽध्यायः ।
२२१
</ignore>

प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्राम-
न्ति; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः ॥

यदि त्वां प्रपन्नाः मायामेतां तरन्ति, कस्मात् त्वामेव सर्वे
न प्रपद्यन्ते इत्युच्यते—

<verse>न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥
<fix> १५ ॥</fix></verse>

न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिण:णः मूढाः
प्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः निकृष्टाः । ते च
मायया अपहृतज्ञाना:नाः संमुषितज्ञाना:नाः आसुरं भावं हिंसानृ-
तादिलक्षणम् आश्रिताः ॥

ये पुनर्नरोत्तमाः पुण्यकर्माणः-

<verse>चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥
</verse>

चतुर्विधाः चतुःप्रकाराः भजन्ते सेवन्ते मां जनाः सुकृ-
तिनः पुण्यकर्माणः हे अर्जुन । आर्त:तः आर्तिपरिगृहीतः तस्कर-
व्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं
ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः
तत्त्वविश्वच्च हे भरतर्षभ ॥

</page>
<ignore>सप्तमोऽध्यायः ।

प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्राम-
न्ति; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः ॥

यदि त्वां प्रपन्नाः मायामेतां तरन्ति, कस्मात् त्वामेव सर्वे
न प्रपद्यन्ते इत्युच्यते—
<verse>न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥

न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारि
प्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः निकृष्टाः । ते च
मायया अपहृतज्ञा
तादिलक्षणम् आश्रिताः ॥

ये पुनर्नरोत्तमाः पुण्यकर्माणः
<verse>चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥

चतुर्विधाः चतुःप्रकाराः भजन्ते सेवन्ते मां जनाः सुकृ-
तिनः पुण्यकर्माणः हे अर्जुन । आर्
व्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं
ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः
तत्त्ववि
</page>