2026-05-03 04:20:41 by ambuda-bot
This page has not been fully proofread.
सप्तमोऽध्यायः ।
२२१
प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्राम-
न्ति; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः ॥
यदि त्वां प्रपन्नाः मायामेतां तरन्ति, कस्मात् त्वामेव सर्वे
न प्रपद्यन्ते इत्युच्यते—
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥
न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिण: मूढाः
प्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः निकृष्टाः । ते च
मायया अपहृतज्ञाना: संमुषितज्ञाना: आसुरं भावं हिंसानृ-
तादिलक्षणम् आश्रिताः ॥
ये पुनर्नरोत्तमाः पुण्यकर्माणः-
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥
चतुर्विधाः चतुःप्रकाराः भजन्ते सेवन्ते मां जनाः सुकृ-
तिनः पुण्यकर्माणः हे अर्जुन । आर्त: आर्तिपरिगृहीतः तस्कर-
व्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं
ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः
तत्त्वविश्व हे भरतर्षभ ॥