Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२२०
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
जगत् इति अनुक्रोशं दर्शयति भगवान् । तच्च किंनिमित्तं
 

जगत:तः अज्ञानमित्युच्यते-
 
—</p>
<verse>
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥
 
<fix> १३ ॥</fix></verse>
<p>
त्रिभिः गुणमयैः गुणविकारै:रैः रागद्वेषमोहादिप्रकारैः

भावैः पदार्थै:थैः एभिः यथोक्तैः सर्वम् इदं प्राणिजातं जगत्

मोहितम् अविवेकितामापादितं सत् न अभिजानानि माम्,

एभ्यः यथोक्तेभ्यः गुणेभ्यः परं व्यतिरिक्तं विलक्षणं च

अव्ययं व्ययरहितं जन्मादिसर्वभावविकारवर्जितम् इत्यर्थः ॥
 
</p>
<p>
कथं पुनः दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायामति-

क्रामति इत्युच्यते—
 
</p>
<verse>
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥
 
<fix> १४ ॥</fix></verse>
<p merge-next="true">
दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मा-

त् एषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्य-

यः अतिक्रमणं यस्याः सा दुरत्यया । तत्र एवं सति सर्वध-

र्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये
 
</p>
</page>