Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
सप्तमोऽध्यायः ।
 
२१९
 
</ignore>
<p>
संसन्निकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु --
-
ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं

सत्त्वमहमस्मि ; न तु यत्संसारिणां तृष्णारागकारणम् ।

किंच— धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु

भूतेषु कामः, यथा देहधारणमात्राद्यर्थः अशनपानादिवि-

षयः, स कामः अस्मि हे भरतर्षभ ॥
 
</p>
<p>
किंच—
 
</p>
<verse>
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥
 
<fix> १२ ॥</fix></verse>
<p>
ये चैव सात्त्विकाः सत्त्वनिर्वृत्ताः भावा:वाः पदार्थाः,

राजसाः रजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताश्च ये केचित्

प्राणिनां स्वकर्मवशात् जायन्ते भात्राःवाः, तान् मत्त एव जाय-

मानान् इति एवं विद्धि सर्वान् समस्तानेव । यद्यपि

मत्तः जायन्ते, तथापि न तु अहं तेषु तदधीनः तद्वशः,

यथा संसारिणः । ते पुनः मयि मद्वशाः मदधीनाः ॥
 
</p>
<p merge-next="true">
एवंभूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभू-
 

तात्मानं निर्गुणं संसारदोषबीजप्रदाहकारणं मां नाभिजानाति
 
</p>
</page>