2026-05-03 04:20:40 by ambuda-bot
This page has not been fully proofread.
२१८
श्रीमद्भगवद्गीताभाष्ये
पुण्यः सुरभिः गन्धः पृथिव्यां च अहम्, तस्मिन् मयि
गन्धभूते पृथिवी प्रोता । पुण्यत्वं गन्धस्य स्वभावत एव
पृथिव्यां दर्शितम् अबादिषु रसादेः पुण्यत्वोपलक्षणार्थम् ।
अपुण्यत्वं तु गन्धादीनाम् अविद्याधर्माद्यपेक्षं संसारिणां
भूत-
विशेषसंसर्गनिमित्तं भवति । तेजश्च दीप्तिश्च अस्मि विभा-
वसौ अग्नौ । तथा जीवनं सर्वभूतेषु, येन जीवन्ति सर्वाणि
भूतानि तत् जीवनम् । तपश्च अस्मि तपस्विषु, तस्मिन्
तपसि मयि तपस्विनः प्रोताः ॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजखिनामहम् ॥१०॥
बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ सना-
तनं चिरन्तनम् । किंच, बुद्धिः विवेकशक्तिः अन्तःकरणस्य
बुद्धिमतां विवेकशक्तिमताम् अस्मि तेजः प्रागल्भ्यं तद्वतां
तेजस्विनाम् अहम् ॥
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११॥
बलं सामर्थ्यम् ओजो बलवताम् अहम्, तच्च बलं काम-
रागविवर्जितम्, कामञ्च रागश्च कामरागौ — कामः तृष्णा