2026-05-04 02:08:02 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सप्तमोऽध्यायः ।
२१७
</ignore>
<p>यस्मादेवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं
जगत् प्रोतं अनुस्यूतम् अनुगतम् अनुविद्धं प्रथितमित्यर्थ.,
थः,
दीर्घतन्तुषु पटवत्, सूत्रे च मणिगणा इव ॥
</p>
<p>केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते-
—</p>
<verse>रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
रस:</verse>
<p>रसः अहम्, अपांय:यः सारः सरसः, तस्मिन् रसभूते
मयि आपः प्रोता इत्यर्थः । एवं सर्वत्र । यथा अहम् अप्सु
रसः, एवं प्रभा अस्मि शशिसूर्ययोः । प्रणवः ओंकारः सर्व-
वेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः । तथा खे
आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम् । तथा
पौरुषं पुरुषस्य भावः पौरुषं यतः पुंबुद्धिः नृषु, तस्मिन्
मयि पुरुषाः प्रोताः ॥
</p>
<verse>पुण्यो गन्धः पृथिव्यां च
तेजश्वाचास्मि विभावसौ ।
जीवनं सर्वभूतेषु
तपश्चास्मि तपखिस्विषु ॥ ९ ॥
</verse>
</page>
<ignore>सप्तमोऽध्यायः ।
<p>यस्मादेवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं
जगत् प्रोतं अनुस्यूतम् अनुगतम् अनुविद्धं प्रथितमित्यर्
दीर्घतन्तुषु पटवत्, सूत्रे च मणिगणा इव ॥
<p>केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते
<verse>रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
रस:
<p>रसः अहम्, अपां
मयि आपः प्रोता इत्यर्थः । एवं सर्वत्र । यथा अहम् अप्सु
रसः, एवं प्रभा अस्मि शशिसूर्ययोः । प्रणवः ओंकारः सर्व-
वेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः । तथा खे
आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम् । तथा
पौरुषं पुरुषस्य भावः पौरुषं यतः पुंबुद्धिः नृषु, तस्मिन्
मयि पुरुषाः प्रोताः ॥
<verse>पुण्यो गन्धः पृथिव्यां च
तेजश्
जीवनं सर्वभूतेषु
तपश्चास्मि तप
</page>