Proofing

This page has not been fully proofread.

सप्तमोऽध्यायः ।
 
२१७
 
यस्मादेवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं
जगत् प्रोतं अनुस्यूतम् अनुगतम् अनुविद्धं प्रथितमित्यर्थ.,
दीर्घतन्तुषु पटवत्, सूत्रे च मणिगणा इव ॥
 
केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते-
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
 
रस: अहम्, अपां य: सारः सरसः, तस्मिन् रसभूते
मयि आपः प्रोता इत्यर्थः । एवं सर्वत्र । यथा अहम् अप्सु
रसः, एवं प्रभा अस्मि शशिसूर्ययोः । प्रणवः ओंकारः सर्व-
वेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः । तथा खे
आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम् । तथा
पौरुषं पुरुषस्य भावः पौरुषं यतः पुंबुद्धिः नृषु, तस्मिन्
मयि पुरुषाः प्रोताः ॥
 
पुण्यो गन्धः पृथिव्यां च
 
तेजश्वास्मि विभावसौ ।
 
जीवनं सर्वभूतेषु
 
तपश्चास्मि तपखिषु ॥ ९ ॥