Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२१६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धना-

त्मिका इयम् । इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां

प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्र-

ज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाबाहो, यया प्रकृत्या

इदं धार्यते जगत् अन्तः प्रविष्टया ॥
 
</p>
<verse>
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६॥
</verse>
<p>
एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः

येषां भूतानां तानि एतद्योनीनि भूतानि सर्वाणि इति एवम्

उपधारय जानीहि । यस्मात् मम प्रकृती योनिः कारणं

सर्वभूतानाम्, अत:तः अहं कृत्स्नस्य समस्तस्य जगतः प्रभवः

उत्पत्तिः प्रलय:यः विनाशः तथा । प्रकृतिद्वयद्वारेण अहं सर्वज्ञः

ईश्वरः जगतः कारणमित्यर्थः ॥
 
</p>
<p>
यतः तस्मात्—
 
,
 
</p>
<verse>
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
माय

मयि
सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
 
</verse>
<p merge-next="true">
मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किंचित्

नास्ति न विद्यते, अहमेव जगत्कारणमित्यर्थः, हे धनंजय ।
 
</p>
</page>