Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२१४

श्रीमद्भगवद्गीताभाष्ये

</ignore>

धनान्तरं मय्येव आसक्तमनाः भवति । यः त्वं एवंभूतः सन्

असंशयं समग्रं समस्तं विभूतिबलशक्तयैश्वर्यादिगुणसंपन्नं मां

यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेण '' एवमेव भगवा-

न्'' इति, तत् शृणु उच्यमानं मया ॥

तच्च मद्विषयम् —

<verse>
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥

<fix> २ ॥</fix></verse>

ज्ञानं ते तुभ्यम् अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तम्

इदं वक्ष्यामि कथयिष्यामि अशेषतः कार्त्स्न्र्त्स्न्येन । तत् ज्ञानं विव-

क्षितं स्तौति श्रोतुः अभिमुखीकरणाय - यत् ज्ञात्वा यत् ज्ञा-

नं ज्ञात्वा न इह भूयः पुनः अन्यत् ज्ञातव्यं पुरुषार्थसाधनम्

अवशिष्यते नावशिष्टं भवति । इति मत्तत्त्वज्ञो यः, सः सर्व-

ज्ञो भवतीत्यर्थः । अतो विशिष्टफलत्वात् दुर्लभं ज्ञानम्

कथमित्युच्यते-

<verse>
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥

<fix> ३ ॥</fix></verse>

मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नं

</page>