2026-05-04 02:15:53 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२१०
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र
शास्त्रार्थपाण्डित्यम्, तद्वद्भथोभ्योऽपि मतः ज्ञातः अधिकः श्रेष्ठः
इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भयः अधिक:कः योगी
विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन ॥
</p>
<verse>योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥
<fix> ४७ ॥</fix></verse>
<trailer>इति श्रीमहाभारते शतसाहस्रर्यां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगो नाम
षष्ठोऽध्यायः ॥
</trailer>
<p>योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन
मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान्
श्रद्दधानः सन् भजते सेवते यो माम्, स मे मम युक्ततमः
अतिशयेन युक्तः मतः अभिप्रेतः इति ॥
॥
</p>
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
षष्ठोऽध्यायः ॥
</trailer>
</page>
<ignore>२१०
<p>तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र
शास्त्रार्थपाण्डित्यम्, तद्वद्
इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भयः अधि
विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन ॥
<verse>योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥
<trailer>इति श्रीमहाभारते शतसाहस्