Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।
 
२०९
 
अत:
</ignore>
<p>अतः
जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन् अपि योग-

मार्गे प्रवृत्तः संन्यासी योगभ्रष्टः, सामर्थ्यात् सोऽपि शब्द-

ब्रह्म वेदोक्तकर्मानुष्ठानफलम् अतिवर्तते अतिक्रामति अपाक-

रिष्यति ; किमुत बुद्ध्वा यः योगं तन्निष्ठः अभ्यासं कुर्यात् ॥
 
</p>
<p>
कुतश्च योगित्वं श्रेयः इति —
 
</p>
<verse>
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥
 
<fix> ४५ ॥</fix></verse>
<p>
प्रयत्नात् यतमानः,
अधिकं यतमान इत्यर्थः । तत्र योगी

विद्वान् संशुद्धकिल्बिष:षः विशुद्धकिल्विषः संशुद्धपापः अनेकज-

न्मसंसिद्धः अनेकेषु जन्मसु किंचित्किंचित् संस्कारजातम् उप-

चित्य तेन उपचितेन अनेकजन्मकृतेन संसिद्ध:धः अनेकजन्मसं-

सिद्धः ततः लब्धसम्यग्दर्शनः सन् याति परां प्रकृष्टां गतिम् ॥
 
</p>
<p>
यस्मादेवं तस्मात्—
 
</p>
<verse>
तपस्विभ्योऽधिको योगी
 

ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मभ्यश्चाधिको योगी
 

तस्माद्योगी भवार्जुन ॥ ४६ ॥
 
8
</verse>
<ignore>S
. B. 14
 
</ignore>
</page>