Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२०६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि
 
'
 
॥<fix> ३८ ॥</fix></verse>
<p>
श्च्चित् किं न उभयविभ्रष्टः कर्ममार्गात् योगमार्गाच्

विभ्रष्टः सन् छिन्नाभ्रमिव नश्यति किं वा न नश्यति अप्र-

तिष्ठो निराश्रयः हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्म-

प्राप्तिमार्गे ॥
 
</p>
<verse>
एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः ।
त्वद्

त्वद
न्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यते ॥
 
<fix> ३९ ॥</fix></verse>
<p>
एतत् मे मम संशयं कृष्ण च्छेत्तुम् अपनेतुम् अर्हसि

अशेषत:तः । त्वदन्यः त्वत्तः अन्यः ऋषिः देवो वा च्छेत्ता

नाशयिता संशयस्य अस्य न हि यस्मात् उपपद्यते न संभ-

वति । अतः त्वमेव च्छेत्तुमर्हसि इत्यर्थः ॥
 
</p>
<verse>
श्रीभगवानुवाच-.
 
--
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।

न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥
 
<fix> ४० ॥</fix></verse>
<p merge-next="true">
हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाश:
शः
तस्य विद्यते नास्ति । नाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः
 
</p>
</page>