2026-05-04 02:20:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>षष्ठोऽध्यायः ।
२०५
</ignore>
<p>असंयतात्मना अभ्यासवैराग्याभ्यामसंयतः आत्मा अन्त:-
करणं यस्य सोऽयम् असंयतात्मा तेन असंयतात्मना योगो
दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः । यस्तु पुनः वश्यात्मा
अभ्यासवैराग्याभ्यां वश्यत्वमापादितः आत्मा मन:नः यस्य सो-
ऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं
कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात् ॥
</p>
<p>तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमि-
त्तानि कर्माणि संन्यस्तानि, योगसिद्धिफलं च मोक्षसाधनं
सम्यग्दर्शनं न प्राप्तमिति, योगी योगमार्गात् मरणकाले चलि-
तचित्तः इति तस्य नाशमाशङ्कय अर्जुन उवाच —
</p>
<verse>अर्जुन उवाच -
--
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥
</verse>
<p>अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्धघा
ध्या
च उपेतः योगात् अन्तकाले च चलितं मानसं मनो यस्य
सः चलितमानस:सः भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिं योग-
फलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति ॥
</p>
</page>
<ignore>षष्ठोऽध्यायः ।
<p>असंयतात्मना अभ्यासवैराग्याभ्यामसंयतः आत्मा अन्त:-
करणं यस्य सोऽयम् असंयतात्मा तेन असंयतात्मना योगो
दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः । यस्तु पुनः वश्यात्मा
अभ्यासवैराग्याभ्यां वश्यत्वमापादितः आत्मा म
ऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं
कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात् ॥
<p>तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमि-
त्तानि कर्माणि संन्यस्तानि, योगसिद्धिफलं च मोक्षसाधनं
सम्यग्दर्शनं न प्राप्तमिति, योगी योगमार्गात् मरणकाले चलि-
तचित्तः इति तस्य नाशमाशङ्कय अर्जुन उवाच —
<verse>अर्जुन उवाच -
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥
<p>अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्
च उपेतः योगात् अन्तकाले च चलितं मानसं मनो यस्य
सः चलितमान