Proofing

This page has not been fully proofread.

षष्ठोऽध्यायः ।
 
२०५
 
असंयतात्मना अभ्यासवैराग्याभ्यामसंयतः आत्मा अन्त:-
करणं यस्य सोऽयम् असंयतात्मा तेन असंयतात्मना योगो
दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः । यस्तु पुनः वश्यात्मा
अभ्यासवैराग्याभ्यां वश्यत्वमापादितः आत्मा मन: यस्य सो-
ऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं
कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात् ॥
 
तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमि-
तानि कर्माणि संन्यस्तानि, योगसिद्धिफलं च मोक्षसाधनं
सम्यग्दर्शनं न प्राप्तमिति, योगी योगमार्गात् मरणकाले चलि-
तचित्तः इति तस्य नाशमाशङ्कय अर्जुन उवाच —
 
अर्जुन उवाच -
 
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥
 
अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्धघा
च उपेतः योगात् अन्तकाले च चलितं मानसं मनो यस्य
सः चलितमानस: भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिं योग-
फलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति ॥