2026-05-04 02:22:09 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२०४
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किंच दृढं त-
न्तुनागवत् अच्छेद्यम् । तस्य एवंभूतस्य मनसः अहं निग्रहं
निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि
दुष्करं मन्ये इत्यभिप्राय:यः ॥
</p>
<p>श्रीभगवानुवाच एवम् एतत् यथा ब्रवीषि —
"
</p>
<verse>श्रीभगवानुवाच-
--
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
<fix> ३५ ॥</fix></verse>
<p>असंशयं नास्ति संशय: ' यः <quote>'मनो दुर्निग्रहं चलम्''</quote> इत्यत्र
हे महाबाहो । किंतु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ
कस्यांचित् समानप्रत्ययावृत्तिः चित्तस्य । वैराग्येण वैराग्यं
नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्यम् । तेन
च वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य । एवं तत्
मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः ॥
</p>
<p>यः पुनः असंयतात्मा, तेन-
,
--</p>
<verse>असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
ब
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥
<fix> ३६ ॥</fix></verse>
</page>
<ignore>२०४
<p>केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किंच दृढं त-
न्तुनागवत् अच्छेद्यम् । तस्य एवंभूतस्य मनसः अहं निग्रहं
निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि
दुष्करं मन्ये इत्यभिप्रा
<p>श्रीभगवानुवाच एवम् एतत् यथा ब्रवीषि —
"
<verse>श्रीभगवानुवाच-
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
<p>असंशयं नास्ति संश