Proofing

This page has not been fully proofread.

२०४
 
श्रीमद्भगवद्गीताभाष्ये
 
केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किंच दृढं त-
न्तुनागवत् अच्छेद्यम् । तस्य एवंभूतस्य मनसः अहं निग्रहं
निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि
दुष्करं मन्ये इत्यभिप्राय: ॥
 
श्रीभगवानुवाच एवम् एतत् यथा ब्रवीषि —
 
"
 
श्रीभगवानुवाच-
 
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
 
असंशयं नास्ति संशय: ' मनो दुर्निग्रहं चलम्' इत्यत्र
हे महाबाहो । किंतु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ
कस्यांचित् समानप्रत्ययावृत्तिः चित्तस्य । वैराग्येण वैराग्यं
नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्यम् । तेन
च वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य । एवं तत्
मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः ॥
 
यः पुनः असंयतात्मा, तेन-
 
,
 
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
बश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥