Proofing

This page has not been fully proofread.

षष्ठोऽध्यायः ।
 
२०३
 
पाद्यतामालक्ष्य शुश्रूषुः ध्रुवं तत्प्राप्युपायमर्जुन उवाच --
 
अर्जुन उवाच-
 
योऽयं योगस्त्वया प्रोक्तः
 
साम्येन मधुसूदन ।
एतस्याहं न पश्यामि
 
चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥
 
यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधुसू-
दन एतस्य योगस्य अहं न पश्यामि नोपलभे, चञ्चलत्वात
मनसः । किम् ? स्थिराम अचलां स्थितिम ॥
 
प्रसिद्धमेतत्--
 
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥
 
चभ्वलं हि मनः । कृष्ण इति कृषतेः विलेखनार्थस्य
रूपम् । भक्तजनपापादिदोषाकर्षणात् कृष्णः, तस्य संबुद्धि: हे
कृष्ण । हि यस्मात् मन्रः चञ्चलं न केवलमत्यर्थं चञ्चलम्,
प्रमाथि च प्रमथनशीलम्, प्रमध्नाति शरीरम् इन्द्रियाणि च
विक्षिपत् सत् परवशीकरोति । किंच -- बलवत प्रबलम्, न