Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२०२
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
सर्वथा सर्वप्रकारैः वर्तमानोऽपि सम्यग्दर्शी योगी मयि

वैष्णवे परमे पदे वर्तते, नित्यमुक्त एव सः, न मोक्षं प्रति

केनचित् प्रतिबध्यते इत्यर्थः ॥
 
</p>
<p>
किंच अन्यत्-
 
--</p>
<verse>
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
 

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥
 
.
 
<fix> ३२ ॥</fix></verse>
<p>
आत्मौपम्येन आत्मा स्वयमेव उपमीयते अनया इत्युपमा

तस्या उपमाया भाव:वः औपम्यं तेन आत्मौपम्येन, सर्वत्र

सर्वभूतेषु समं तुल्यं पश्यति य:यः अर्जुन, स च किं समं

पश्यति इत्युच्यते यथा मम सुखम् इष्टं तथा सर्वप्राणिनां

सुखम् अनुकूलम् । वाशब्दः चार्थे । यदि वा यच्च दुःखं मम

प्रतिकूलम् अनिष्टं यथा तथा सर्वप्राणिनां दुःखम् अनिष्टं

प्रतिकूलं इत्येवम् आत्मौपम्येन सुखदुःखे अनुकूलप्रतिकूले

तुल्यतया सर्वभूतेषु समं पश्यति, न कस्यचित् प्रतिकूलमा -

चरति, अहिंसक इत्यर्थः । यः एवमहिंसकः सम्यग्दर्शननि-

ष्ठः स योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्वयोगिनां

मध्ये
 
॥</p>
<p merge-next="true">
एतस्य यथोक्तस्य सम्यग्दर्शनलक्षणस्य योगस्य दुःखसं-
 
</p>
</page>