Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।
 
२०१
 
</ignore>
<p>
आत्मनि एकतां गतानि ईक्षते पश्यति योगयुक्तात्मा समा-

हितान्तः करणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु

विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं

ज्ञानं यस्य स.सः सर्वत्र समदर्शनः ॥
 
</p>
<p>
एतस्य आत्मैकत्वदर्शनस्य फलम् उच्यते—
 
</p>
<verse>
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
 
<fix> ३० ॥</fix></verse>
<p>
यो मां पश्यति वासुदेवं सर्वस्य आत्मानं सर्वत्र सर्वेषु

भूतेषु सर्वेवं च ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति,

तस्य एवं आत्मैकत्वदर्शिनः अहम् ईश्वरो न प्रणश्यामि न

परोक्षतां गमिष्यामि । स च मे न प्रणश्यति स च विद्वान्

मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च

मम च एकात्मकत्वात्; स्वात्मा हि नाम आत्मनः प्रिय

एव भवति, यस्माच्च अहमेव सर्वात्मैकत्वदर्शी ॥
 
</p>
<p>
इत्येतत् पूर्वश्लोकार्थं सम्यग्दर्शनमनूद्य तत्फलं मोक्षः

अभिधीयते—
 
</p>
<verse>
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
 
<fix> ३१ ॥</fix></verse>
</page>