Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२००
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं निरतिशयम्

उपैति उपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमि-

त्यर्थः, ब्रह्मभूतं जीवन्मुक्तम् '&apos;ब्रह्मैव सर्वम्'&apos; इत्येवं निश्चय-

वन्तं ब्रह्मभूतम् अकल्मषं धर्माधर्मादिवर्जितम् ॥
 
</p>
<verse>
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।

सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥
 
</verse>
<p>
युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः

सदा सर्वदा आत्मानं विगतकल्मषः विगतपापः, सुखेन

अनायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत्

ब्रह्मसंस्पर्शं सुखम् अत्यन्तम् अन्तमतीत्य वर्तत इत्यत्यन्तम्

उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति ॥
 
</p>
<p>
इदानीं योगस्य यत् फलं ब्रह्मैकत्वदर्शनं सर्वसंसारवि-

च्छेदकारणं तत् प्रदर्श्यते-
 
--</p>
<verse>
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥
 
</verse>
<p merge-next="true">
सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्वभू-

तानि च आत्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि च सर्वभूतानि
 
</p>
</page>