Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।
 
१९९
 
</ignore>
<p>
धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थम् आत्मनि

संस्थितम् 'आत्मैव सर्वे न ततोऽन्यत् किंचिदस्ति' इत्येव-

मात्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । एष योगस्य

परमो विधिः ।
 
</p>
<p>
तत्र एवमात्मसंस्थं मनः कर्तुं प्रवृत्तो योगी --
 
</p>
<verse>
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६॥
 
</verse>
<p>
यतो यतः यस्माद्यस्मात् निमित्तात् शब्दादेः निश्रति

निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थ चलम्, अत

एव अस्थिरम्, ततस्ततः तस्मात्तस्मात् शब्दादेः निमित्तात्

नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैरा-

ग्यभावनया च एतत् मनः आत्मन्येव वशं नयेत् आत्म-

वश्यतामापादयेत् । एवं योगाभ्यासबलात् योगिनः आत्म-

न्येव प्रशाम्यति मनः ॥ .
 
</p>
<verse>
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।

उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥
 
</verse>
<p merge-next="true">
प्रशान्तमनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनाः
 
</p>
</page>