Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१९८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
दुःखसंयोगवियोगं योग इत्येव संज्ञितं विपरीतलक्षणेन

विद्यात् विजानीयादित्यर्थः । योगफलमुपसंहृत्य पुनरन्वा -

रम्भेण योगस्य कर्तव्यता उच्यते निश्चयानिर्वेदयोः योगसाध-

त्वविधानार्थम् । स यथोक्तफलो योगः निश्चयेन अध्यव-

सायेन योक्तव्यः अनिर्विण्णचेतसा न निर्विण्णम् अनिर्वि
-
ण्णम् । किं तत् ? चेतः तेन निर्वेदरहितेन चेतसा चित्तेने-

त्यर्थः T: 11
॥</p>
<p>
किंच-
 
--</p>
<verse>
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥
 
</verse>
<p>
संकल्पप्रभवान् संकल्पः प्रभवः येषां कामानां ते संकल्प-

प्रभवाः कामाः तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतः

निर्लेपेन । किंच, मनसैव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रि -

यसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ॥
</p>
<verse>
शनैः शनैरुपरमेडुद्बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥
 
<fix> २५ ॥</fix></verse>
<p merge-next="true">
शनैः शनैः न सहसा उपरमेत् उपरतिं कुर्यात् । कया !
?
बुद्ध्या । किंविशिष्टया ? धृतिगृहीतया धृत्या धैर्येण गृहीतया
 
</p>
</page>