Proofing

This page has not been fully proofread.

१९८
 
श्रीमद्भगवद्गीताभाष्ये
 
दुःखसंयोगवियोगं योग इत्येव संज्ञितं विपरीतलक्षणेन
विद्यात् विजानीयादित्यर्थः । योगफलमुपसंहृत्य पुनरन्वा -
रम्भेण योगस्य कर्तव्यता उच्यते निश्चयानिर्वेदयोः योगसाध-
त्वविधानार्थम् । स यथोक्तफलो योगः निश्चयेन अध्यव-
सायेन योक्तव्यः अनिर्विण्णचेतसा न निर्विण्णम् अनिर्वि
ण्णम् । किं तत् ? चेतः तेन निर्वेदरहितेन चेतसा चित्तेने-
त्यर्थः T: 11
किंच-
 
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥
 
संकल्पप्रभवान् संकल्पः प्रभवः येषां कामानां ते संकल्प-
प्रभवाः कामाः तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतः
निर्लेपेन । किंच, मनसैव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रि -
यसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ॥
शनैः शनैरुपरमेडुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥
 
शनैः शनैः न सहसा उपरमेत् उपरतिं कुर्यात् । कया !
बुद्धया । किंविशिष्टया ? धृतिगृहीतया धृत्या धैर्येण गृहीतया