Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।

१९७

</ignore>

अविषयजनितमित्यर्थः, वेत्ति तत् ईदृशं सुखमनुभवति यत्र

यस्मिन् काले, न च एवं अयं विद्वान् आत्मस्वरूपे स्थितः

तस्मात् नैव चलति तत्त्वतः तत्त्वस्वरूपात् न प्रच्यवते

इत्यर्थः ॥

किंच-

<verse>
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।

यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥

<fix> २२ ॥</fix></verse>

यं लब्ध्वा यम् आत्मलाभं लब्ध्वा प्राप्य च अपरम्

अन्यत् लाभं लाभान्तरं ततः अधिकम् अस्तीति न मन्यते न.

चिन्तयति । किंच, यस्मिन् आत्मतत्त्वे स्थितः दुःखेन शस्त्र-

निपातादिलक्षणेन गुरुणा महता अपि न विचाल्यते ॥

'यत्रोपरमते' इत्याद्यारभ्य यावद्भिः विशेषणैः विशिष्
टः
आत्मावस्थाविशेषः योग उक्तः --

<verse>
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥

<fix> २३ ॥</fix></verse>

तं विद्यात् विजानीयात् दुःखसंयोगवियोगं दुःखैः

संयोगः दुःखसंयोगः;, तेन वियोग:गः 'दुःखसंयोगवियोग:गः' , तं

</page>