Proofing

This page has not been fully proofread.

१९६
 
श्रीमद्भगवद्गीताभाष्ये
 
· इत्युपमा योगज्ञैः चित्तप्रचारदर्शिभिः स्मृता चिन्तिता
योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योगम् अनु-
· तिष्ठतः आत्मनः समाधिमनुतिष्ठत इत्यर्थः ॥
 
एवं योगाभ्यासबलादेकाग्रीभूतं निवातप्रदीपकल्पं सत्-
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥
 
यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति
निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन,
यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेन अन्तःक-
रणेन आत्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन् उपलभ-
मानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते ॥
 
किंच--
 
सुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥
 
सुखम् आत्यन्तिकं अत्यन्तमेव भवति इत्यात्यन्तिकम् अ-
नन्तमित्यर्थः, यत् तत् बुद्धिप्राह्यं बुद्धधैव इन्द्रियनिरपेक्षया
गृह्यते इति बुद्धिप्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम्