Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।

१९५

</ignore>

बोधश् तौ नियतकालौ यस्य तस्य, युक्ताहारविहारस्य युक्त-

चेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति

दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्वसंसारदुःख-

क्षयकृत् योगः भवतीत्यर्थः ॥

अथ अधुना कदा युक्तो भवति इत्युच्यते-

<verse>
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥

<fix> १८ ॥</fix></verse>

यदा विनियतं विशेषेण नियतं संयतम् एकाग्रतामापन्नं

चित्तं हित्वा बाह्यार्थचिन्ताम् आत्मन्येव केवले अवतिष्ठते,

स्वात्मनि स्थितिं लभते इत्यर्थः । निःस्पृहः सर्वकामेभ्यः

निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः मः
सः
युक्तः समाहितः इत्युच्यते तदा तस्मिन्काले ॥

तस्य योगिनः समाहितं यत् चित्तं तस्योपमा उच्यते-

<verse>
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९॥

</verse>

यथा दीपः प्रदीपः निवातस्थः निवाते वातवर्जिते देशे

स्थितः न इङ्गते न चलति, सा उपमा उपमीयते अनया

</page>