2026-05-05 04:02:55 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>षष्ठोऽध्यायः ।
१९३
</ignore>
<p>मयि परमेश्वरे चित्तं यस्य सोऽयं मञ्च्चित्तः, युक्तः समाहितः
सन् आसीत उपविशेत् । मत्परः अहं परो यस्य सोऽयं
मत्परो भवति । कश्चित् रागी स्त्रीचित्तः, न तु स्त्रियमेव
परत्वेन गृह्णाति ; किं तर्हि ? राजानं महादेवंवांवा । अयं
तु मश्च्चित्तो मत्परश्च ॥
</p>
<p>अथेदानीं योगफलमुच्यते-
—</p>
<verse>युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति ॥
<fix> १५ ॥</fix></verse>
<p>युञ्जन् समाधानं कुर्वन् एवं यथोक्तेन विधानेन सदा
आत्मानं सर्वदा योगी नियतमानसः नियतं संयतं मानसं
मनो यखस्य सोऽयं नियतमानसः, शान्तिम् उपरतिं निर्वाण-
परमां निर्वाणं मोक्षः तत् परमा निष्ठा यस्याः शान्तेः सा
निर्वाणपरमा तां निर्वाणपरमाम्, मत्संस्थां मदधीनाम् अधि-
गच्छति प्राप्नोति ॥
</p>
<p>इदानीं योगिनः आहारादिनियम उच्यते —
</p>
<verse>नात्यश्नतस्तु
योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वमप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥
</verse>
<ignore>S. B. 13
</ignore>
</page>
<ignore>षष्ठोऽध्यायः ।
<p>मयि परमेश्वरे चित्तं यस्य सोऽयं म
सन् आसीत उपविशेत् । मत्परः अहं परो यस्य सोऽयं
मत्परो भवति । कश्चित् रागी स्त्रीचित्तः, न तु स्त्रियमेव
परत्वेन गृह्णाति ; किं तर्हि ? राजानं महादेवं
तु म
<p>अथेदानीं योगफलमुच्यते
<verse>युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति ॥
<p>युञ्जन् समाधानं कुर्वन् एवं यथोक्तेन विधानेन सदा
आत्मानं सर्वदा योगी नियतमानसः नियतं संयतं मानसं
मनो य
परमां निर्वाणं मोक्षः तत् परमा निष्ठा यस्याः शान्तेः सा
निर्वाणपरमा तां निर्वाणपरमाम्, मत्संस्थां मदधीनाम् अधि-
गच्छति प्राप्नोति ॥
<p>इदानीं योगिनः आहारादिनियम उच्यते —
<verse>नात्यश्नतस्तु
न चातिस्व
<ignore>S. B. 13
</page>