2026-05-03 04:20:30 by ambuda-bot
This page has not been fully proofread.
षष्ठोऽध्यायः ।
१९३
मयि परमेश्वरे चित्तं यस्य सोऽयं मञ्चित्तः, युक्तः समाहितः
सन् आसीत उपविशेत् । मत्परः अहं परो यस्य सोऽयं
मत्परो भवति । कश्चित् रागी स्त्रीचित्तः, न तु स्त्रियमेव
परत्वेन गृह्णाति ; किं तर्हि ? राजानं महादेवं वां । अयं
तु मश्चित्तो मत्परश्च ॥
अथेदानीं योगफलमुच्यते-
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति ॥
युञ्जन् समाधानं कुर्वन् एवं यथोक्तेन विधानेन सदा
आत्मानं सर्वदा योगी नियतमानसः नियतं संयतं मानसं
मनो यख सोऽयं नियतमानसः, शान्तिम् उपरतिं निर्वाण-
परमां निर्वाणं मोक्षः तत् परमा निष्ठा यस्याः शान्तेः सा
निर्वाणपरमा तां निर्वाणपरमाम्, मत्संस्थां मदधीनाम् अधि-
गच्छति प्राप्नोति ॥
इदानीं योगिनः आहारादिनियम उच्यते—
नात्यश्नतस्तु
योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वमशीलस्य जाग्रतो नैव चार्जुन ॥ १६॥
S. B. 13