Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१९२
 
श्रीमद्भगवद्गीताभाष्ये
 
-
 
</ignore>
<p>
संभवति ; अतः विशिनष्टि अचलमिति । स्थिरः स्थिरो

भूत्वा इत्यर्थः । स्वं नासिकाग्रं संप्रेक्ष्य सम्यक् प्रेक्षणं

दर्शनं कृत्वेव इति । इवशब्दो लुप्तो द्रष्टव्यः । न हि स्वना-

सिकाग्र संप्रेक्षणमिह विधित्सितम् । किं तर्हि ? चक्षुषो

दृष्टिसंनिपातः । स च अन्तःकरणसमाधानापेक्षो विवक्षितः ।

स्वनासिकाग्रसंप्रेक्षणमेव चेत् विवक्षितम्, मनः तत्रैव समाधी-

येत, नात्मनि । आत्मनि हि मनसः समाधानं वक्ष्यति
'

&apos;
आत्मसंस्थं मनः कृत्वा'&apos; इति । तस्मात् इवशब्दलोपेन

अक्ष्णोः दृष्टिसंनिपात एव '&apos;संप्रेक्ष्य'&apos; इत्युच्यते । दिशश्च

अनवलोकयन् दिशां च अवलोकनमन्तराकुर्वन् इत्येतत् ॥

किंच--
 
</p>
<verse>
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥
 
<fix> १४ ॥</fix></verse>
<p merge-next="true">
प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य

सोऽयं प्रशान्तात्मा, विगतभीः विगतभयः, ब्रह्मचारिव्रते

स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषाभिक्षान्नभु
-
क्त्यादि तस्मिन् स्थितः, तदनुष्ठाता भवेदित्यर्थः । किंच,

मनः संयम्य मनसः वृत्तीः उपसंहृत्य इत्येतत् मच्चित्तः
 
</p>
</page>