Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।
 
१९१
 
</ignore>
<p>
तीव उच्छ्रितं न अपि अतिनीचम्, तच्च चैलाजिनकुशोत्तरं चैलम्

अजिनं कुशाश्व उत्तरे यस्मिन् आसने तत् आसनं चैलाजि -

नकुशोत्तरम् । पाठक्रमाद्विपरीतः अत्र क्रमः चैलादीनाम् ॥

प्रतिष्ठाप्य, किम् ? —
 
</p>
<verse>
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्जधाज्याद्योगमात्मविशुद्धये ॥ १२॥
 
</verse>
<p>
तत्र तस्मिन् आसने उपविश्य योगं युञ्जयात् । कथम् ?

सर्वविषयेभ्यः उपसंहृत्य एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः

चित्तं च इन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य

सः यतचित्तेन्द्रियक्रियः । स किमर्थं योगं युञ्जयात् इत्याह-

आत्मविशुद्धये अन्तःकरणस्य विशुद्धयर्थमित्येतत् ॥
 
</p>
<p>
बाह्यमासनमुक्तम्; अधुना शरीरधारणं कथम् इत्यु-
 

च्यते
 
</p>
<verse>
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।

संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
 
<fix> १३ ॥</fix></verse>
<p merge-next="true">
समं कायशिरोग्रीवं कायश्च शिरश्च ग्रीवा च कायशि-

रोग्रीवं तत् समं धारयन् अचलं च । समं धारयतः चलनं
 
</p>
</page>