Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१९०
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
अत एवमुत्तमफलप्राप्तये—
 
</p>
<verse>
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥
 
</verse>
<p>
योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदा आत्मा-

नम् अन्तःकरणं रहसि एकान्ते गिरिगुहादौ स्थितः सन्

एकाकी असहाय:यः' &apos;रहसि स्थितः एकाकी च'&apos; इति विशे-

षणात् संन्यासं कृत्वा इत्यर्थः । यतचित्तात्मा चित्तम् अन्तःक-

रणम् आत्मा देहश्च संयतौ यस्य सः यतचित्तात्मा, निराशीः

वीततृष्ण:णः अपरिग्रहः परिग्रहरहितश्चेत्यर्थः । संन्यासित्वेऽपि

त्यक्तसर्वपरिग्रहः सन् युञ्जीत इत्यर्थः ॥
 
</p>
<p>
अथेदानीं योगं युञ्जतः आसनाहारविहारादीनां योगसा-

धनत्वेन नियमो वक्तव्यः, प्राप्तयोगस्य लक्षणं तत्फलादि च,

इत्यत आरभ्यते । तत्र आसनमेव तावत् प्रथममुच्यते-
 
—</p>
<verse>
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥
 
<fix> ११ ॥</fix></verse>
<p merge-next="true">
शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने

प्रतिष्ठाप्य स्थिरम् अचलम् आत्मनः आसनं नात्युच्छ्रितं ना-
 
</p>
</page>