Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१८८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥
 
</verse>
<p>ब
न्धुः आत्मा आत्मनः तस्य तस्य आत्मनः स आत्मा

बन्धुः येन आत्मना आत्मैव जित:तः, आत्मा कार्यकरणसं-

घातो येन वशीकृतः, जितेन्द्रिय इत्यर्थः । अनात्मनस्तु

अजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेत आत्मैव शत्रुवत्,

यथा अनात्मा शंत्रुः आत्मन:नः अपकारी, तथा आत्मा आत्म
नः
अपकारे वर्तेत इत्यर्थः ॥
 
</p>
<verse>
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥
 
जितात्मन:
</verse>
<p>जितात्मनः
कार्यकरणसंघात आत्मा जितो येन सः
 

जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तःकरणस्य

सतः संन्यासिनः परमात्मा समाहितः साक्षादात्मभावेन

वर्तते इत्यर्थः । किंच शीतोष्णसुखदुःखेषु तथा माने अप-

माने च मानापमानयोः पूजापरिभावयोः समः स्यात् ॥
 
</p>
<verse>
ज्ञानविज्ञानतृसाप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥
 
<fix> ८ ॥</fix></verse>
</page>