2026-05-04 02:36:47 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१८६
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>अथेदानीं कदा योगारूढो भवति इत्युच्यते-
—</p>
<verse>यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥
</verse>
<p>यदा समाधीयमानचित्तो योगी हि इन्द्रियार्थेषु इन्द्रि -
याणामर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु च नित्यनैमि-
त्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्धधाध्या न अनुषज्जते अनु-
षङ्गं कर्तव्यताबुद्धिं न करोतीत्यर्थः । सर्वसंकल्पसंन्यासी स-
र्वान् संकल्पान् इहामुत्रार्थकामहेतून् संन्यसितुं शीलम् अस्य
इति सर्वसंकल्पसंन्यासी, योगारूढः प्राप्तयोग इत्येतत्, तदा
तस्मिन् काले उच्यते ।''सर्वसंकल्पसंन्यासी'' इति वचनात्
सर्वोश्च कामान् सर्वाणि च कर्माणि संन्यस्येदित्यर्थः । संक-
ल्पमूला हि सर्वे कामा: - ' माः — <quote>'संकल्पमूलः कामो वै यज्ञाः
संकल्पसंभवाः । काम जानामि ते मूलं संकल्पात्किल जा-
यसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि''</quote> इत्या-
दिस्मृतेः । सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भ-
वति,''स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म
कुरुते'' इत्यादिश्रुतिभ्य: ; 'यः ; 'यद्यद्धि कुरुते जन्तुः तत्तत्
कामस्य चेष्टितम्'' इत्यादिस्मृतिभ्यश्च ; न्यायाश्च न हि
सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुमपि शक्तः । तस्मात्
</p>
</page>
<ignore>१८६
<p>अथेदानीं कदा योगारूढो भवति इत्युच्यते
<verse>यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥
<p>यदा समाधीयमानचित्तो योगी हि इन्द्रियार्थेषु इन्द्रि -
याणामर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु च नित्यनैमि-
त्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्
षङ्गं कर्तव्यताबुद्धिं न करोतीत्यर्थः । सर्वसंकल्पसंन्यासी स-
र्वान् संकल्पान् इहामुत्रार्थकामहेतून् संन्यसितुं शीलम् अस्य
इति सर्वसंकल्पसंन्यासी, योगारूढः प्राप्तयोग इत्येतत्, तदा
तस्मिन् काले उच्यते ।
सर्वोश्च कामान् सर्वाणि च कर्माणि संन्यस्येदित्यर्थः । संक-
ल्पमूला हि सर्वे का
संकल्पसंभवाः । काम जानामि ते मूलं संकल्पात्किल जा-
यसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि
दिस्मृतेः । सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भ-
वति,
कुरुते
कामस्य चेष्टितम्
सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुमपि शक्तः । तस्मात्
</page>