Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।
 
१८५
 
</ignore>
<p>
एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससा -

मान्यमपेक्ष्य '&apos;यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव'
&apos;
इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वम् उक्तम् । ध्यानयोगस्य

फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन

स्तुत्वा अधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति—
</p>
<verse>
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३॥
 
</verse>
<p>
आरुरुक्षो:षोः आरोदुमिच्छतः, अनारूढस्य, ध्यानयोगे

अवस्थातुमशक्तस्यैवेत्यर्थः । कस्य तस्य आरुरुक्षोः ? मुनेः,

कर्मफलसंन्यासिन इत्यर्थः । किमारुरुक्षोः ? योगम् । कर्म

कारणं साधनम् उच्यते । योगारूढस्य पुनः तस्यैव शम:मः उ-

पशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम्

उच्यते इत्यर्थः । यावद्यावत् कर्मभ्यः उपरमते, तावत्तावत्

निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति

स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन-
'

&apos;
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।

शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः '
 
&apos;
इति ॥
 
</p>
</page>