Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१८४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।

न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥
 
</verse>
<p>
यं सर्वकर्मतत्फलपरित्यागलक्षणं परमार्थसंन्यासं संन्या-

सम् इति प्राहुः श्रुतिस्मृतिविदः, योगं कर्मानुष्ठानलक्षणं तं

परमार्थसंन्यासं विद्धि जानीहि हे पाण्डव । कर्मयोगस्य

प्रवृत्तिलक्षणस्य तद्विपरीतेन निवृत्तिलक्षणेन परमार्थसंन्या-

सेन कीदृशं सामान्यमङ्गीकृत्य तद्भाव उच्यते इत्यपेक्षायाम्

इदमुच्यते — अस्ति हि परमार्थसंन्यासेन सादृश्यं कर्तृ-

द्वारकं कर्मयोगस्य । यो हि परमार्थसंन्यासी स त्यक्तसर्व-

कर्मसाधनतया सर्वकर्मतत्फलविषयं संकल्पं प्रवृत्तिहेतुका-

मकारणं संन्यस्यति । अयमपि कर्मयोगी कर्म कुर्वाण एव

फलविषयं संकल्पं संन्यस्यति इत्येतमर्थेथं दर्शयिष्यन् आह—

न हि यस्मात् असंन्यस्तसंकल्पः असंन्यस्त:तः अपरित्यक्तः

फलविषयः संकल्पः अभिसंधिः येन सः असंन्यस्तसंकल्पः

कश्चन कश्चिदपि कर्मी योगी समाधानवान् भवति न

संभवतीत्यर्थः, फलसंकल्पस्य चित्तविक्षेपहेतुत्वात् । तस्मात्

यः कश्चन कर्मी संन्यस्तफलसंकल्पो भवेत् स योगी समा-

धानवान् अविक्षिप्तचित्तो भवेत्, चित्तविक्षेपहेतोः फलसं-

कल्पस्य संन्यस्तत्वादित्यभिप्राय:यः
 
</p>
</page>